|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.125. अध्यायः 125
Mahabharata - Vana Parva - Chapter Topics
च्यवनस्य यौवनलाभश्रवणहृष्टेन शर्यातिना तदाश्रमाभिगमनम् ॥ 1 ॥ च्यवनेन शर्यातेर्याजनम् ॥ 2 ॥ तत्र च्यवनेनाश्विभ्यां स्वप्रतिश्रुतसोमरसदानोद्यमे इन्द्रेण तस्य हननाय बाहुना वज्रोद्यमनम् ॥ 3 ॥ तद्बाहुसंस्तग्भनपूर्वकं च्यवनसृष्टया कृत्यया शक्रंप्रत्यभिसरणम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-125-0x(2107)(20741)
ततः श्रुत्वा तु शर्यातिर्वयस्थं च्यवनं कृतम्।
सुहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥ 3-125-1(20742)
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव।
रेमे सभार्यः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥ 3-125-2(20743)
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः।
उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः ॥ 3-125-3(20744)
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्।
याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥ 3-125-4(20745)
ततः परमसंहृष्टः शर्यातिरवनीपतिः।
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ 3-125-5(20746)
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ 3-125-6(20747)
तत्रैनं च्यवनो राजन्याजयामास भार्गवः।
अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥ 3-125-7(20748)
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा।
तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम् ॥ 3-125-8(20749)
इन्द्र उवाच। 3-125-9x(2108)
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः।
भिषजौ दिवि देवानां कर्मणा तेन नार्हतः ॥ 3-125-9(20750)
च्यवन उवाच। 3-125-10x(2109)
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ।
यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम् ॥ 3-125-10(20751)
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम्।
अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥ 3-125-11(20752)
इन्द्र उवाच। 3-125-12x(2110)
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ।
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥ 3-125-12(20753)
लोमश उवाच। 3-125-13x(2111)
एतदेव तदा वाक्यमाम्रेडयति वासवे।
अनादृत्यततः शक्रं ग्रहं जग्राह भार्गवः ॥ 3-125-13(20754)
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ 3-125-14(20755)
आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम्।
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥ 3-125-15(20756)
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्यस भार्गवः।
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ 3-125-16(20757)
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः।
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ 3-125-17(20758)
तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्।
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ 3-125-18(20759)
ततः कृत्याऽथ संजज्ञे मुनेस्तस्य तपोबलात्।
मदो नाम महावीर्यो बृहत्कायो महासुरः ॥ 3-125-19(20760)
शरीरं यस् निर्देष्टुमशक्यं तु सुरासुरैः।
तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत् ॥ 3-125-20(20761)
हनुरेका स्थिता त्वस्य भूमावेका दिवं गता।
चतस्रश्चायता दंष्ट्रा योजनानां शतंशतम् ॥ 3-125-21(20762)
इतरे तस्य दशना बभूवुर्दशयोजनाः।
प्रासादशिखराकाराः शूलाग्रसमदर्शनाः ॥ 3-125-22(20763)
बाहू परिघसंकाशावायतावयुतं समौ।
नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसंनिभम् ॥ 3-125-23(20764)
लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया।
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥ 3-125-24(20765)
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत्।
महता घोररूपेण लोकाञ्शब्देन नादयत् ॥ 3-125-25(20766)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि प़्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-125-1 वयस्थं युवानम् ॥ 3-125-4 संभारान् यज्ञोपकरणानि ॥ 3-125-8 ग्रहं सोमस्य। गृह्णानं तयोरर्थे ॥ 3-125-11 सवं सोमम् ॥ 3-125-12 भैषज्यात्कर्मणो निन्द्याविति क. पाठः ॥ 3-125-13 आम्रेड्यति पुनःपुनरावर्तयति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|